Tuesday 19 September 2017

संस्कृत के महत्व व प्रचार प्रसार पर मेरे विचार (7 सितंबर 2017)


मानवसभ्यतायां वर्षेभ्य सूचनाया: सर्वाधिकं महत्वपूर्णं विषयम् आसीत्। सनातन धर्मावलंबिनाम् प्रसंग दर्शनानन्तरम् अवगम्यते यत् आदिकालत एव  जना: संस्कृतेनैव संभाषणम् कुर्वंतिस्म।

सहस्रवर्षेभ्य: पूर्ववेदानां रचना संस्कृते एव अभूत। ऋग्वेद: विश्वस्य प्राचीनतम ग्रंथ: अस्ति: ग्रंथ: संस्कृते एव प्रणीत अस्ति। अद्यापि विश्वस्य विभिन्नेषु देशेषु कोटिश: जना: आरोग्यप्रापणार्थम तथा च आध्यात्मज्ञान प्राप्त्यर्थं योगं एव पठंति तथा च एतादृशम एव आचरणम कुर्वंति। योगस्य मौलिकी भाषां संस्कृतम् एव अस्ति।
अस्माकम् ऋषिमुनीनां भाषा संस्कृतम् एव आसीत्। अस्माकं सिद्धपुरुषै: यस्य आयुर्वेदस्य बलेन असंख्यजनानाम् आरोग्यलाभ: विहित: तस्यापि भाषा संस्कृतम् एव आसीत्।  

कालिदासेनैव नाटकानाम् वैशिष्ट्यं स्वकीये प्रसिद्धे ग्रंथे अभिज्ञानशाकुंतले यादृशं वर्णितं अस्ति तेन विश्वस्य श्रेष्ठाविद्वांस: अभिभूता: संति। अस्मादेव कारणात् सर विलियम जॉन्स इत्यनेन वैदिशिकेन अस्य ग्रथंस्य आंग्लभाषायाम् अनुवादो विहित:

विचारयंतु भवन्त: यत् अद्य विश्वे यद् खगोलविद्याया: संभावना जाता सा केवलम् संस्कृतस्य कारणाद एव अभूत्। अहम एतदर्थं ब्रवीमि यत् शून्यस्य आविष्कारक: महान् गणितज्ञ: आर्यभट्ट स्वकीय सर्वेषां ग्रंथानाम् रचना संस्कृत भाषायां एव कृतवान् । तस्य गणितस्य सूत्राणाम् विश्वस्य बह्वीषु भाषासु अनुवादो विहित:

अद्यापि प्राचीन भारतस्य मानवसभ्यताया: महत्वपूर्णां भूमिकाम् निर्वहताम् अर्थशास्त्रंकृषिविज्ञानम् खगोल विज्ञानम्राजनीति ग्रंथ: संस्कृतेनैव रचिता: सन्ति। सर्वाधिकं प्रमुखं अस्ति यत् अद्यापि विश्वम् भगवद्गीताया: अनुकरणम् करोतिसा भगवद्गीता संस्कृतभाषायामेव लिखिता अस्ति।
देववाणी परोपकार मिशन के छठवें संस्कृत सम्मेलन का शुभारंभ करते हुए

व्यवहार रूपेण संस्कृतम् बिना जीवनदर्शनस्य कल्पना एव न कर्तुम् शक्यते। अद्य अस्मिन सम्मेलने वयंसंस्कृतस्य एतादृशं महत्वं एव आचरणार्थम् तथा च संस्कृतस्य प्रचाराय प्रसाराय च विचार विमर्श कुर्म:

अद्य संस्कृत अपरम् अपि महत्वपूर्ण वैशिष्टम अस्ति। अस्या भाषाया: व्याकरणम् सुव्यवस्थितम् नियमपूर्वकं च अस्ति। महर्षि पाणिनिना अस्या: भाषाया: व्याकरणम् स्वकीयया अष्टाध्यायी रचनया अद्वितीयं कार्यं विहितम्। अस्या भाषाया: व्याकरणानुसारं व्यवहारे यत्किमपि उच्चारणं भवति तद्नुसारं एव लेखनम् विधीयते। महर्षि पाणिने: व्याकरणानुसारम् सर्वेषां वर्णानां तत्तद् मुखोच्चारित स्थानै: एव विधीयते। अत्र कंठतालुमूर्धाप्रभृति स्थानै: वर्णानां शुद्धोच्चराणं विधीयते। एतस्मात् कारणात् एव इयं भाषा भाषावैज्ञानिकै: वैज्ञानिकी भाषा कथ्यते।
संस्कृत भाषा न केवलम् संवादस्य कृते प्रयुज्यते अपितु इयं भाषा संपूर्णं विश्वं एकस्मिन्नेव सूत्रे योजनार्थं संकल्पं प्रदर्शयति। इयं भाषा भारतवर्षस्य जीवन दर्शनम् विश्वस्य कृते प्रेरयति। इदं एव पंचतंत्रस्य श्लोके वर्णितम् अस्ति।

अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।
संस्कृतज्ञ: संपूर्णं विश्वं स्वकुटुबं इव स्वीकरोति इयमेव उदारभावना अस्माकम् ग्रंथेषु वर्णिता अस्ति।

विश्वस्य विभिन्नेषु देशेषु या प्रतिस्पर्धाभावना अद्यदृश्यते सा अशांते: कारणात् अस्ति। परम् भारतवर्षम् संपूर्णं देशं विश्वं वा सर्वेभवंतु सुखिन:सर्वे संतु निरामया:इति भावनाया: कल्पनाम् करोति।
अहम् प्रसन्न: अस्मि यत् ऐतिहासिक रूपेण अपि देवभूमे: उत्तराखंडस्यसंस्कृतेन सह अत्यधिक: दृढ: संबंध: अस्ति। अस्या: वैशिष्टेन सह पुराणेषु अपि उत्तराखंडे भगवता श्रीकृष्णेन स्वकीय पवित्र दर्शानार्थम् वर्णनं कृतम् अस्ति।

गच्छोद्धव मयादिष्टो बदर्याख्यम् ममाश्रमम् ।
तत्रमत्पादतीर्थोदे स्नानोस्पर्शनै: शुचि: ।।

एतन मात्रं न अपितु बद्रीकाश्रमत उपर्रिभागे महर्षि वेदव्यासस्य एकं प्रतिष्ठितं स्थानं अस्ति यत् व्यासगुफा इति नाम्ना एव ज्ञायते। तत्रं वेदव्यासेन अष्टादश पुराणानाम् रचना विहिता अस्ति। आदि जगत गुरु शंकराचार्येणापि केरल प्रदेशतपदातिरेव यात्राम् विधाय उत्तराखंडस्य ज्योतिर्मठ (जोशीमठ) इति स्थानम् आगत्य भाष्य ग्रंथस्य रचना विहिता। तथा च स्वकीयस्य मठाम्नायस्य ज्योतिर्मठस्य प्रथमरूपेण स्थापना विहिता।

संस्कृतस्य महान् साहित्यकारेण कालिदासेनापि उत्तराखंडस्य पवित्राम् भूमिम् देवभूमि रूपेण वर्णितम् अस्ति। अस्यैव प्रदेशस्य कोटद्वार इति स्थाने अभिज्ञानशाकुंतलम वर्णितम् कण्वऋषै पवित्राश्रमम् स्थितं अस्ति। यत्र कण्वाश्रम रूपेण अद्यापि जन: श्रद्धां धारयंति।

संक्षेपतउत्तराखंडम देवभूमि इति पवित्र शब्देन सह देववाणीम संस्कृतम अपि स्वकीय भौगोलिक स्थित्या सह विभूषयति। एभि: कारणै: उत्तराखंडम् देवभूमिरिति महत्वं विलोक्य संस्कृतम् द्वितीयं राजभाषारूपेण विराजते।  

एतादृशे काले यदा विश्वस्य विभिन्नाषु भाषासु काठिन्यं अनुभूयते तदा संस्कृतं विश्वस्य सर्वोत्कृष्टा भाषा अस्ति। कर्नाटकेमट्टूर नामके ग्रामे सर्वे ग्रामवासिन: संस्कृतेनैव संभाषण कुर्वंति। तत्र ते सर्वे स्वकीयं दैनन्दिनम् कार्यं संस्कृते नैव कुर्वंति।

एतादृशम् एव उत्तराखंडसर्वाकारेण् एकम् अद्वितीय कार्यं विहितम अस्ति। यत् विभिन्नेषु विभागेषु पट्टिकालेखनम् संस्कृतेनैवस्यात् यथा राज्यस्य ऋषिकेशे नगरपालिका प्रशासनेन स्वकीयेषु विभागेषु सर्वा:लेखा: संस्कृतेनैव लिखिता: संति। संस्कृत विश्वविद्यालयेअपि आचार्या: छात्रा: कर्मचारिण: संस्कृतेनैव सर्वाणिकार्याणि संपादयंति। एतादृशम् एव विभिन्नेषु संस्कृत विद्यालयेषु संस्कृतस्य वातावरणम् दृश्यते अहं विश्वासपूर्वकं वदामि यत्नातिदूरं अस्ति यदा संपूर्णे उत्तराखंडे संस्कृतम् जनभाषारूपेण प्रतिष्ठिता भविष्यति।

अद्य विश्वभूमंडलीकरणे अस्माकम् प्राचीनतम भाषाया: संस्कृतस्य समक्षे बहव: समस्या: संति। अद्य संगणक युगे तथा च दूरभाषायंत्रस्य आधिक्ये संस्कृतम् कथम् व्यावहारिकी भाषा भवेतअस्मिन् विषये विचारस्य आवश्यक्ता अस्ति।

यथा च विश्वस्य जलवायुपरिवर्तनार्थम् प्रदूषणार्थम् भूमंडलीकरणार्थम् तथा च आतंकवादस्य विभिन्न विषया: विश्वस्य पटले संति। संस्कृतस्य विद्वांस:अस्याम् संस्कृभाषायाम् सम्यक् गभीरतया विचारणेन अनुसंधानम् कुर्यु: यत् आधुनिक विचारै: इयं भाषा संपूर्णे विश्वे अपि एता: समस्या: निराकरणार्थम किंचित् सामार्थ्ययुक्ता भविष्यति।
अहम विश्वासं करोमि यत् भवत् सदृशै: विद्वदभि: प्रयासै तथा च सहयोगेन् संस्कृतभाषा पुन: एकबारम् विश्वस्य मूर्धनि आरोहम् प्राप्स्यति।


No comments:

Post a Comment